ओं अथात्मानग्ं शिवात्मानग्ं श्रीरुद्ररूपं ध्यायेत् ॥ शुद्धस्फटिकसंकाशं त्रिनेत्रं पञ्चवक्त्रकम् । गङ्गाधरं दशभुजं सर्वाभरणभूषितम् ॥ नीलग्रीवं शशांकांकं नागयज्ञोपवीतिनम् । व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ॥ कमण्डल्वक्षसूत्राणां धारिणं शूलपाणिनम् । ज्वलन्तं पिङ्गलजटाशिखामुद्योतधारिणम् ॥ वृषस्कन्धसमारूढम् उमादेहार्धधारिणम् । अमृतेनाप्लुतं शान्तं दिव्यभोगसमन्वितम् ॥ दिग्देवतासमायुक्तं सुरासुरनमस्कृतम् । नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ॥ सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम् । एवं ध्यात्वा द्विजस्सम्यक् ततो यजनमारभेत्...